धनुःशब्दान्तस्य बहुव्रीहेः अनङादेशो भवति समासान्तः। शार्ङ्गं धनुरस्य शार्ङ्गधन्वा। गाण्डीवधन्वा। पुष्पधन्वा। अधिज्यधन्वा।
धनुषश्च। "ऊधसोऽनङि"ति पूर्वसूत्रं स्त्रीप्रत्ययादिकारे व्याख्यातं, तस्मादनङित्यनुवर्तते। तदाह--अनङादेश इति। ङित्त्वादन्तादेश इति भावः। द्विधन्वेति। द्वे धनुषी यस्येति विग्रहः। समासे द्विधनुशब्दे सकारस्य अनङादेशः। ङकार इत्। अकार उच्चारणार्थः। उकारस्य यणिति भावः। शाङ्र्गधन्वेति। श्रृङ्गस्येदं शाङ्र्गं। "तस्येद"मित्यण्, तत् धनुर्यस्येति विग्रहः। समासे शाङ्र्गधनुःशब्दे सकारस्यानङ्, ङकार इत्, अकार उच्चारणार्थः। उकारस्य यणिति भावः। महिम्नःस्तवे "स्वलावण्याशंसाधृतधनुषमि"ति प्रयोगस्त्वार्षः।